नर्मदातटे वैदिकविद्यापीठे वेदशास्त्रसंरक्षणञ्च
Abstract
भारतस्य हृदयस्थले मध्यप्रदेशे प्रदेशस्य जीवनरेखाया: मातुः नर्मदायाः तटे विद्यते वैदिकविद्यापीठम् “चिचोटकुटीरम्” इति | 2013 तमे वर्षे राष्ट्रियस्वयंसेवकसङ्घस्य सहसरकार्यवाहमहोदयाः माननीया: सुरेशजी सोनी वर्याः चिचोटकुटीरं प्रति आगतवन्तः तदा पूज्यतिलकस्वामिभिः सह विमर्शोपरान्तं 2014 वर्षात् वैदिकविद्यापीठं तस्मिन स्थाने आरम्भणीयं इति निश्चितम् | निश्चयानुसारं गुरुपूर्णिमादिवसे नवविद्यार्थिभिः सह विद्यापीठस्य आरम्भः जातः | विद्यापीठस्य कृते स्वामीवर्येण 24 एकडपरिमितं भूमिरपि प्रदत्ता | मार्च मासस्य 26 दिनाङ्के 2017 तमे वर्षे प्रदत्तभूमौ मध्यप्रदेशस्य यशस्विनः मुख्यमन्त्रिणः शिवराजसिंहचौहानवर्यः भूमिपूजनं कृत्वा विद्यापीठस्य औपचारिकं शुभारम्भं कृतवन्तः| वैदिकविद्यापीठस्य निर्माणेपि वैशिष्ट्यं विद्यते भारतीय संस्कृतौ शुभचिह्नानुसारं स्वस्तिकाकारे विद्यापीठस्य भवनसंरचना कृता | नियमानुसारं वैदिकपीठस्य समितीनां गठनमपि जातम् |
How to Cite
सन्दीप सिंह. (1). नर्मदातटे वैदिकविद्यापीठे वेदशास्त्रसंरक्षणञ्च. ACCENT JOURNAL OF ECONOMICS ECOLOGY & ENGINEERING ISSN: 2456-1037 SIF:8.20, Peer Reviewed and Refereed Journal, UGC APPROVED NO. 48767 (Ref.2018), 10(10), 29-30. Retrieved from https://ajeee.co.in/index.php/ajeee/article/view/5863
Section
Articles






